Sunday, April 6, 2014

अकिञ्चनोऽहम्

पृथ्वी
मदीयमनसो मुदं वितनुतां सदा शङ्करः 
स्वयं हृदयसद्मनि स्थितिमियात् स पीडाहरः ।
प्रफुल्लितमना भवानि सततं सदा जीवने
न वै भ्रमयतां पुनः शिव ! घने जगत्कानने ।।१

विलाप–परिहास–रोदनयुतं सदैवाद्भुतम् 
निशम्य दिनमेति कष्टसहितं जनानां रूतम् ।
कदा सुखमवाप्यते जगति कर्हिचित् पीडनम्
कथं नु विदितं भवेज्जगदिदं, मृषा कल्पनम् ।।२

प्रभाकर इतः प्रकाशयति किं प्रभातं सदा
उदित्य पुनरस्तमेति भुवने किमर्थं तदा ।
जनानुपदि शन जनिस्थितिलयाः समेषामिति
स्वयं रविरूदेति तिष्ठति पुनर्लयं गच्छति ।।३

अनित्यलघुजीवने किमपि किं विधेयं खलु
स्वकीय सकलं मनःस्थकलुषं विहेयं खलु ।
वृथा जगति मोह–शोक–निखिलाः व्थावर्धकाः
विहाय सकलान्, भवेम सकलाः प्रभो सेवकाः ।।४

सदा तव सुशीतलं करूणदं भवेद्दर्शनम् 
सुखेन परिपाल्यतां मम पुनः प्रियं जीवनम् ।
इदं मम मनः शिवे हि रमतां भवत् कोमलं
कुरूष्व चरणारविन्दमधुपं चिरञ्जीविनम् ।।५