श्रीमद्भगवद्गीता
ॐ श्री परमात्मने नमः
अथ श्रीमद्भगवद्गीता
अथ प्रथमोऽध्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे
समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव
किमकुर्वत सञ्जय ॥१
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं
व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा
वचनमब्रवीत् ॥२
पश्यैतां
पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण
तव शिष्येण धीमता ॥३
अत्र शूरा महेष्वासा
भीमार्जुनसमा युधि ।
युयुधानो विराटश्च
द्रुपदश्च महारथः ॥४
धृष्टकेतुश्चेकितानः
काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च
शैब्यश्च नरपुंगवः ॥५
युधामन्युश्च विक्रान्त
उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च
सर्व एव महारथाः ॥६
अस्माकं तु विशिष्टा ये
तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य
संज्ञार्थं तान्ब्रवीमि ते ॥७
भवान्भीष्मश्च कर्णश्च
कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च
सौमदत्तिस्तथैव च ॥८
अन्ये च बहवः शूरा मदर्थे
त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः
सर्वे युद्धविशारदाः ॥९
अपर्याप्तं तदस्माकं
बलं भीष्माभिरक्षितम् ।
पर्याप्तं
त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु
भवन्तः सर्व एव हि ॥११
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः
शङ्खं दध्मौ प्रतापवान् ॥१२
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स
शब्दस्तुमुलोऽभवत् ॥१३
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव
दिव्यौ शङ्खौ प्रदध्मतुः ॥१४
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ
महाशङ्खं भीमकर्मा वृकोदरः ॥१५
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च
सुघोषमणिपुष्पकौ ॥१६
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो
विराटश्च सात्यकिश्चापराजितः ॥१७
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः
शङ्खान्दध्मुः पृथक्पृथक् ॥१८
स घोषो
धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव
तुमुलोऽभ्यनुनादयन् ॥१९
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते
शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥२०
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं
स्थापय मेऽच्युत ॥२१
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह
योद्धव्यमस्मिन् रणसमुद्यमे ॥२२
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य
दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३
सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये
स्थापयित्वा रथोत्तमम् ॥२४
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ
पश्यैतान्समवेतान्कुरूनिति ॥२५
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा
॥२६
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स
कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं
कृष्ण युयुत्सुं समुपस्थितम् ॥२८
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे
रोमहर्षश्च जायते ॥२९
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं
भ्रमतीव च मे मनः ॥३०
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे ॥३१
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन
गोविन्द किं भोगैर्जीवितेन वा ॥३२
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च ॥३३
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते ॥३५
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः
॥३६
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा
सुखिनः स्याम माधव ॥३७
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं
मित्रद्रोहे च पातकम् ॥३८
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं
प्रपश्यद्भिर्जनार्दन ॥३९
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं
कृत्स्नमधर्मोऽभिभवत्युत ॥४०
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु
वार्ष्णेय जायते वर्णसङ्करः ॥४१
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां
लुप्तपिण्डोदकक्रियाः ॥४२
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते
जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो
भवतीत्यनुशुश्रुम ॥४४
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन
हन्तुं स्वजनमुद्यताः ॥४५
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे
हन्युस्तन्मे क्षेमतरं भवेत् ॥४६
सञ्जय उवाच
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं
शोकसंविग्नमानसः ॥४७
ॐ तत्सदिति
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो
नाम प्रथमोऽध्यायः ॥१
No comments:
Post a Comment