Friday, December 20, 2019


श्रीमद्भगवद्गीता
ॐ श्री परमात्मने नमः
अथ श्रीमद्भगवद्गीता

अथ प्रथमोऽध्यायः

        धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१
        सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥१९
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥२०
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
        अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३
        सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥२६
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
        अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥२८
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३०
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥३५
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥३६
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥४१
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४२
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४४
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६
        सञ्जय उवाच
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥१

Friday, September 9, 2016

सधैँ सधैँ उडीरह्यो गीत

गीतम्

-पञ्चचामर
सधैँ सधैँ उडीरह्यो उडीरह्यो कता कता ।
हवा अजस्र चल्दछन्, र जिन्दगी छ बेपता ।।

गुरुत्व छैन तैपनि सधैँ व्यथा भरेपनि ।
उडीरह्यो यताउती छ लक्ष्यहीन जीवनी ।।
कि कस्तुरी सुगन्धमा बढिरह्यो अधीरता ।
न लक्ष्य भेटियो सखी मिलीरह्यो निरर्थता ।।
सधैँ सधैँ उडीरह्यो...........................

फुली सुगन्ध छर्नुमा सुकेर साँझ झर्नुमा ।
व्यथा छ पुष्पको यही रसै नपाई मर्नुमा ।।
मनुष्य, जीव, दानव, छ रक्ष यक्ष देवता ।
म देख्न सक्दथेँ कहाँ अनेकमाझ एकता ।।
सधैँ सधैँ उडीरह्यो.................................

सयौँ हजार घुम्दछन्, हरेस खान्न की रवि ।
बुटा भरेर हेर्दछन् कि जिन्दगी अझै कवि ।।
मशानघाट मौन छन्, म देख्छु मात्र सन्नटा ।
म सोध्दथेँ चितासँग छ जिन्दगी कहाँ बता ।।
सधैँ सधैँ उडीरह्यो..........................


Sunday, January 18, 2015

साहित्यसंगमकाे निरन्तरतामा एक गजल


ताेटक छन्द (गजल)

अझ तृप्ति कहाँ भुमराहरुको।
कति बग्नु थियो छहराहरुको ।।

नभमा सुखपूर्वक उड्छ चरा ।
तर हुन्छ व्यथा विचराहरूको ।।

मृत भै दुख तैपनि छुट्छ कहाँ ।
कति ठोकिनु थ्यो नगराहरुको ।।

चल हर्पल जीवन पुग्छ जहाँ ।
जहिँ त्रास थियो खतराहरूको ।।

मुख गर्छ दया मृटु शून्य थियो ।
भनि शब्द कठै र बराहरूको ।।


Sunday, April 6, 2014

अकिञ्चनोऽहम्

पृथ्वी
मदीयमनसो मुदं वितनुतां सदा शङ्करः 
स्वयं हृदयसद्मनि स्थितिमियात् स पीडाहरः ।
प्रफुल्लितमना भवानि सततं सदा जीवने
न वै भ्रमयतां पुनः शिव ! घने जगत्कानने ।।१

विलाप–परिहास–रोदनयुतं सदैवाद्भुतम् 
निशम्य दिनमेति कष्टसहितं जनानां रूतम् ।
कदा सुखमवाप्यते जगति कर्हिचित् पीडनम्
कथं नु विदितं भवेज्जगदिदं, मृषा कल्पनम् ।।२

प्रभाकर इतः प्रकाशयति किं प्रभातं सदा
उदित्य पुनरस्तमेति भुवने किमर्थं तदा ।
जनानुपदि शन जनिस्थितिलयाः समेषामिति
स्वयं रविरूदेति तिष्ठति पुनर्लयं गच्छति ।।३

अनित्यलघुजीवने किमपि किं विधेयं खलु
स्वकीय सकलं मनःस्थकलुषं विहेयं खलु ।
वृथा जगति मोह–शोक–निखिलाः व्थावर्धकाः
विहाय सकलान्, भवेम सकलाः प्रभो सेवकाः ।।४

सदा तव सुशीतलं करूणदं भवेद्दर्शनम् 
सुखेन परिपाल्यतां मम पुनः प्रियं जीवनम् ।
इदं मम मनः शिवे हि रमतां भवत् कोमलं
कुरूष्व चरणारविन्दमधुपं चिरञ्जीविनम् ।।५

Thursday, March 27, 2014

मधुसूदनको एउटा गजल

मधुसूदन पराजुली
उस्कै यादमा तड्पेँ भन्दै बस्ने बानी छैन मेरो ।कल्पनाको दबदबेमा फस्ने बानी छैन मेरो ।।जत्ति लुट्नु मजा लुट्छु वर्तमान नै काफी लाग्छ ।भूत भविष्यत् चराई मनलाई डस्ने बानी छैन मेरो ।।जुन काम पनि खुली गर्छु लुकी छिपी हुन्न केही ।चुकुल लगाई घरभित्रै पस्ने बानी छैन मेरो ।।जे गर्दा नि विचार गर्छु पछि चिन्ता पर्छ भनी ।भूल सम्झी छाँगाबाट खस्ने बानी छैन मेरो ।। मान्छे हेरी आदर माया दुवै गर्न सिकेको छु ।बेटो भन्छ सोझै चिप्लो घस्ने बानी छैन मेरो ।।
सिन्धुकोट, सिन्धुपाल्चोक


मुक्तकहरु


सागर खनाल


तिम्रै लागि एकअर्कामा खिचातानी हुनसक्छ
यसमा धेरै दोषी तिम्रो जवानी हुन सक्छ ।
आफ्नो कुरा आफैँसँग राख्यौ भने मात्र
नत्र धेरै नराम्रो कुराकानी हुनसक्छ ।।

गाढा माया मधुरो बनाउँछ दुनिया
विचरो भन्दै बबुरो बनाउँछ दुनिया ।
मेरी आमा मरेकै निहुँमा
मलाई किन टुहुरो बनाउँछ दुनिया ।।

नभएको प्रमाण अनि तथ्य बनाउँछ
तथ्यविनाको कुरालाई सत्य बनाउँछ ।।
यो कानुन निष्ठुर भएर त होला
दृश्यपात्रलाई पनि नेपथ्य बनाउँछ ।।

कोपवा–५, कपिलवस्तु